સરસ્વતીચંદ્ર ભાગ ૧
पञ्चदशीના શ્લોક
इच्छा ने परेच्छा च प्रारब्धं त्रिविधं स्मृतम् ॥अपथ्यसेविनश्चोरा राजदारस्ता अपि ।जानन्त इव स्वानर्थमिच्छन्त्यारब्धकर्मतः ॥न चात्रैतद्वारयितुमीश्वरेणापि शक्यते ।यत ईश्वर एवाह गीतायामर्जुनं प्रति ॥सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥अवश्यंभाविभावनां प्रतीकारो भवेद्यदि ।तदा दुःखैर्न लिप्येरन् नलरामयुधिष्ठिराः ॥अनिच्छापूर्वकं चास्ति प्रारब्धमिते तच्छृणु ॥अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥स्वभावजेन कौन्तेय विबद्धः स्वेन कर्मणा ।कर्त्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत्॥नानिच्छन्तो न चेच्छन्तः परदाक्षिण्यसंयुता: ।सुखदुःखे भजन्त्येत्त्परेच्छापूर्वकर्म हि ॥ पञ्चदशी.